प्रारंभ – सुभाषितम् – १४

प्रारंभ – सुभाषितम् – १४
 
अर्थागमो नित्यमरोगिता च ।
प्रिया च भार्या प्रियवादिनी च ।
वश्यश्च पुत्रोऽर्थकरी च विद्या ।
षड्जीवलोकस्य सुखानि राजन् ।।
अ) संधि-विच्छेदान्कृत्वा 

  1. अर्थागमो नित्यमरोगिता अर्थ-आगमः नित्यम् अरोगिता

    1. अर्थ-आगमः = अर्थागमः (समासान्तर्गत-स्वर-संधिः)
    2. अर्थागमः नित्यम् = अर्थागमो नित्यम् (विसर्ग-संधिः)
    3. अर्थागमो नित्यम् + अरोगिता = अर्थागमो नित्यमरोगिता (व्यञ्जन-संधिः)
  2. वश्यश्च  = वश्यः + च (विसर्ग-संधिः)
  3. पुत्रोऽर्थकरी = पुत्रः + अर्थकरी (विसर्ग-संधिः)
  4. षड्जीवलोकस्य = षट् + जीवलोकस्य (व्यञ्जन-संधिः)
अर्थ-आगमः नित्यम् अरोगिता च ।
प्रिया च भार्या प्रियवादिनी च ।
वश्यः च पुत्रः अर्थकरी च विद्या ।
ट् जीवलोकस्य सुखानि राजन् ।।

आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च

१. अर्थागमः अर्थागम” इति सामासिकं नाम अत्र पुंल्लिङ्गितस्य प्रथमा विभक्तिः एकवचनं च ।

  • १-१ अर्थस्य आगमः इति अर्थागमः (षष्ठी-तत्पुरुषः)
  • १-२ अर्थस्य – “अर्थ” (= money) इति पुंल्लिङ्गि नाम तस्य षष्ठी विभक्तिः एकवचनं च ।
  • १-३ आगमः – “आ + गम्” (= to come) इति धातुः तस्मात् पुंल्लिङ्गि नाम “आगम” (= income) तस्य प्रथमा विभक्तिः एकवचनं च । 
  • १-४ अर्थागमः = income of money,
२. नित्यम् (=always ) इति अव्ययम्  । 
३. अरोगिता – इति सामासिकं स्त्रीलिङ्गि नाम तस्य प्रथमा विभक्तिः एकवचनं च ।

  • ३-१ न रोगिता इति अरोगिता (नञ्-तत्पुरुषः)  
  • ३-२ रोगिता (= being ill) इति स्त्रीलिङ्गि नाम तस्य तृतीया विभक्तिः एकवचनं च ।
  • ३-३ अरोगिता = no illness, wellness

४. (= and) इति अव्ययम्

५. “प्री” इति धातुः तस्मात् विशेषणं “प्रिय” (= loving, loveable) अत्र स्त्रीलिङ्गि  तस्य प्रथमा विभक्तिः एकवचनम्

  • ५-१ “प्री” इति धातुः [((9 उ. प्रीणाति, प्रीणीते, प्रीत) {प्रीञ् तर्पने कान्तौ च)} (प्री = to satisfy, to please, to adore, to love, to be loved)]
  • ५-२ Also “प्री” इति धातुः [(4 आ. प्रीयते) (प्रीङ् प्रीतौ) (प्री = to be loved*)] – *mostly used in passive voice, hence “to be loved”.
  • ५-३ Note, meaning of प्रिया is both, loving and loveable.
६. भार्या (= wife) इति स्त्रीलिङ्गि नाम तस्य प्रथमा विभक्तिः एकवचनम्
७. प्रियवादिनी – “प्रियवादिन्” इति सामासिकं विशेषणम् । अत्र स्त्रीलिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च ।

  • ७-१ वदति इति वादिन् प्रियं वदति इति प्रियवादिन् (उपपद-तत्पुरुषः) ।
  • ७-२ प्रियवादिनी = speaking pleasantly
८. वश्यः – “वश्” [(2 प. धातुः वष्टि, उशित) (वश कान्तौ) (वश् = to wish, to desire, to long for)] तस्मात् विशेषणं “वश्य” (= desirable) । अत्र पुंल्लिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च
९.
पुत्रः – “पुत्र” (= son) इति पुंल्लिङ्गि नाम  तस्य प्रथमा विभक्तिः एकवचनं च
१०. अर्थकरी –  अर्थकरिन् इति विशेषणम् । अत्र स्त्रीलिङ्गि तस्य प्रथमा विभक्तिः एकवचनं च ।

  • १०-१ अर्थं करोति इति अर्थकरिन् 
  • १०-२ अर्थम् – अर्-थ् इति धातुः । तस्मात् पुंल्लिङ्गि नाम “अर्थ” (= wealth, income, purpose, meaning) तस्य द्वितीया विभक्तिः एकवचनं च
  • १०-अर्थकरी = fulfilling

११. विद्या – “विद्” इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “विद्या” (= knowledge, learning) तस्य प्रथमा विभक्तिः एकवचनं च ।
१२. षट् (= six) इति संख्यावाचकं विशेषणम् । सर्वेषु लिङ्गेषु समानरूपाणि । तस्य प्रथमा विभक्तिः, सदैव बहुवचने
१३. जीवलोकस्य – “जीवलोक” इति सामासिकं पुंल्लिङ्गि नाम
तस्य षष्ठी विभक्तिः एकवचनं च ।

  • १३-१ जीवानां लोकः इति जीवलोकः – षष्ठी-तत्पुरुषः
  • १३-२ जीवानाम् – “जीव्” इति धातुः । तस्मात् पुंल्लिङ्गि नाम “जीव” (= living being) तस्य षष्ठी विभक्तिः बहुवचनं च ।
  • १३-३ लोकः – “लोक्इति धातुः । तस्मात् पुंल्लिङ्गि नाम “लोक” (= world) तस्य प्रथमा विभक्तिः एकवचनं च ।
  • १३-४ जीवलोकः = living world

१४. सुखानि – “सुख” (= pleasure, happiness) इति नपुंसकलिङ्गि नाम तस्य प्रथमा विभक्तिः बहुवचनं च ।
१५. राजन्
(= king) इति पुंल्लिङ्गि नाम तस्य संबोधन-प्रथमा विभक्तिः एकवचनं च ।

  • १५-१ “राज्” इति धातुः । तस्मात् पुंल्लिङ्गि नाम “राज्” तथा “राजन्” – Note both “राज्” and “राजन्” are nouns with same meaning  ‘king’. But their रूपाणि are different, because their consonant-endings are different

    • one is ज्-ending (राट्, राड् राजौ राजः) and
    • other is न्-ending (राजा राजानौ राजानः)
    • Note, राजः is बहुवचन !

इ) अन्वया: अन्वयार्थाः च

  1. राजन् ! (1) अर्थागमः (2) नित्यम् अरोगिता(3) प्रिया च भार्या (4) प्रियवादिनी च (5) वश्यः च पुत्रः (6) अर्थकरी च विद्या = O king ! (regular, satisfactory) income, being always healthy, loving wife, sweet-speaking (friend), desirable friend and meaningful learning,
  2. (एतानि) षट् जीवलोकस्य सुखानि (भवन्ति) = These six are the pleasures of this living world.

ई) वृत्तम् Meter – The verse is already outline in four quarters.

अर्थागमो नित्यमरोगिता च । (वर्णाः ११)
(२-२-१)-(२ २-१)-(१-२-१)-२ (२) इति मात्राः

त त ज ग ग इति गणाः 

प्रिया च भार्या प्रियवादिनी च । (वर्णाः ११)
(१-२ १) (२-२ १)-(१-२-१)-२ (२)
इति मात्राः
त ज ग ग इति गणाः 
वश्यश्च पुत्रोऽर्थकरी च विद्या । (वर्णाः ११)
(२-२-१) (२-२-१)-(१-२ १) २-२
इति मात्राः
त त ज ग ग इति गणाः 

षड्जीवलोकस्य सुखानि राजन् ।।(वर्णाः ११)
(२-२-१)-(२-२-१) (१-२-१) २-२
इति मात्राः
त त ज ग ग इति गणाः 

The meter in first, third and fourth lines is इन्द्रवज्रा । अस्य लक्षणपदम् – स्यादिन्द्रवज्रा यदि तौ जगौ गः ।
In the second line the meter is उपेन्द्रवज्रा । अस्य लक्षणपदम् – उपेन्द्रवज्रा जतजास्ततो गः ।
When there is a combination of different meters in one verse, the meter of the verse is called as उपजाति-वृत्तम् । Combination especially of  इन्द्रवज्रा and उपेन्द्रवज्रा seems to be quite common, because both these meters being of 11 syllables, combine very smoothly, without affecting the rhythm.

उ) टीकाः टिप्पण्य: Comments and Notes-

  1. Having said अर्थागमः, purpose from अर्थकरी विद्या need not again be only to earn income. To have respect in the society can also be a purpose, which अर्थकरी विद्या can and should fulfill. That is how meaning of the word अर्थ can and should be understood in a broad sense.
  2. The word नित्यम् can be connected with both अर्थागमः and अरोगिता. Both are always needed, right ?
  3. The count of six pleasures is distributed, two in each quarter, in first three quarters. That makes प्रिया च भार्या and प्रियवादिनी च to be counted separately. Although both could be the same person, meaning should be loving/loveable and also sweet-speaking.
  4. By the way, the address “O king !” is actually address to धृतराष्ट्र. This श्लोक is No 82 from विदुरनीतिशतकम्, detailed in 33rd अध्याय in प्रजागरपर्व which is an उपपर्व of उद्योगपर्व in श्रीमन्महाभारतम्,

    1. which has main 18 पर्व-s, with many उपपर्व-s under each main पर्व. And there are many अध्याय-s under each उपपर्व. Each main पर्व has a name, each उपपर्व has a name, each अध्याय also has a name.
    2. For example, Geeta is श्रीमद्भगवद्गीतापर्व, an उपपर्व of भीष्मपर्व. The 18 अध्याय-s of Geeta are अध्याय-s 25 to 42 of भीष्मपर्व
    3. It is all so systematized and structured. That is what Sanskrit is.
    4. That is what व्यासमुनि did even for वेद-s. That is why he is known as वेदव्यास. What Vedas we have, are as structured by व्यास.
शुभमस्तु
-o-O-o-

One thought on “प्रारंभ – सुभाषितम् – १४

Leave a comment