प्रारंभ-लोकोक्तिषु त्रयोदशी (१३) लोकोक्तिः

प्रारंभ-लोकोक्तिषु त्रयोदशी (१३) लोकोक्तिः 

लोकोक्तिः – न चेतनवतां वृत्तिभयम् (अ. ४ सू. २९) … अथवा नोद्योगवतां वृत्तिभयम्

In the textbook it is also explained by the example – 
युवको न गणयति दुःखं दास्यवृत्तेः, यतः … न चेतनवतां वृत्तिभयम् (अथवा) न उद्योगवतां वृत्तिभयम्
अ) संधि-विच्छेदान्कृत्वा 

  1. नोद्योगवताम् न उद्योगवताम्(“गुण”-स्वर-संधिः)
  2. युवको न = युवकः न (विसर्ग-संधिः)
न चेतनवतां वृत्तिभयम् (अथवा) न उद्योगवतां वृत्तिभयम्
युवकः न गणयति दुःखं दास्यवृत्तेः यतः …

आ) सामासिक-शब्दानां विग्रहाः, शब्दानां विश्लेषणानि, शब्दार्थाः च
न (= no, not) इति अव्ययम् । 
२. चेतनवताम् – “चित्” (= to be mindful, to deliberate, to kindle) इति धातुः तस्मात् “चेतनवत्” (= alert, living, vibrant, kindled, conscious, aware) इति विशेषणम् अत्र पुंल्लिङ्गि तस्य षष्ठी विभक्तिः बहुवचनं च

. वृत्तिभयम् – “वृत्तिभय” इति सामासिकं नपुंसकलिङ्गि नाम तस्य प्रथमा विभक्तिः एकवचनं च

  • वृत्तेः भयं इति वृत्तिभयम् (षष्ठी-तत्पुरुषः)
  • वृत्तेः – “वृत्” (= to conduct life) इति धातुः तस्मात् स्त्रीलिङ्गि नाम “वृत्ति” (= inclination, tendency, aptitude, conducting life, profession) तस्य षष्ठी विभक्तिः एकवचनं च । 
  • भयम् – “भय” (= fear) इति नपुंसकलिङ्गि नाम तस्य प्रथमा विभक्तिः एकवचनं च

४. उद्योगवताम्“उत् + युज्” (= to be engaged) इति धातुः तस्मात् “उद्योगवत्” (= industrious) इति विशेषणम् अत्र पुंल्लिङ्गि तस्य षष्ठी विभक्तिः बहुवचनं च
५. युवकः – “युवक” (= youth) इति पुंल्लिङ्गि नामतस्य प्रथमा विभक्तिः एकवचनं च
गणयति – “गण्” (= to count, to take note of, to mind) इति धातुः तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम्

७. दुःखम् – “दुःख” (= sorrow, misery) इति नपुंसकलिङ्गि नाम तस्य द्वितीया विभक्तिः एकवचनं च
८. दास्यवृत्तेः “दास्यवृत्ति” इति सामासिकं स्त्रीलिङ्गि नाम तस्य षष्ठी विभक्तिः एकवचनं च

  • दास्यम् (एव) वृत्तिः इति दास्यवृत्तिः (प्रथमा-तत्पुरुषः)
  • दास्यम् – “दास्य” (= servitude) इति नपुंसकलिङ्गि नाम तस्य प्रथमा विभक्तिः एकवचनं च
  • दास्यवृत्तिः = profession of servitude, conducting life by being a servant.

९. यतः (= because) इति अव्ययम्

इ) अन्वया: अन्वयार्थाः च

  1. न चेतनवतां वृत्तिभयम्  = Alert and active persons would have no fear of conducting life or of sustenance. ( or अथवा)

    1. न उद्योगवतां वृत्तिभयम् = Industrious persons would have no fear of conducting life.
  2. युवकः न गणयति दुःखं दास्यवृत्तेः, यतः …= A youth does not mind the misery of servitude, because (it earns him his daily bread).

ई) टीकाः टिप्पण्य: Comments and Notes –

  1. I came across the alternate wording of the सूत्रम् “न उद्योगवतां” in place of ‘न चेतनवतां’. So both the wordings are given.
  2. The सूत्रम् brings to mind a सुभाषितम्

    1. सद्विद्या यदि का चिन्ता वराकोदरपूरणे शुकोप्यशनमाप्नोति राम-रामेति च ब्रुवन्

      1. संधि-विच्छेदान् कृत्वा – 
        1. सद्विद्या = सत्-विद्या 
        2. वराकोदरपूरणे = वराक-उदर-पूरणे
        3. शुकोप्यशनमाप्नोति = शुकः अपि अशनम्प्नोति
        4. रामेति = राम इति
        5. सत्-विद्या यदि का चिन्ता वराक-उदर-पूरणे शुकः अपि अशनम्प्नोति ‘राम, राम’ इति च ब्रुवन् 
      2. वराकोदरपूरणे – “वराकोदरपूरण” इति सामासिकं नपुंसकलिङ्गि नाम तस्य सप्तमी विभक्तिः एकवचनं च
        1. वराकं उदरं इति वराकोदरं (कर्मधारयः)
        2. वराकोदरस्य पूरणं इति वराकोदरपूरणम् (षष्ठी-तत्पुरुषः)
        3. वराकम् – “वराक” (= poor, miserable) इति विशेषणम् । प्रायः नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च
        4. उदरम् – “उदर” (= stomach, belly) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च
        5. वराकोदरपूरणम् = Filling the poor stomach, “पापी पेट” !
      3. शुकः – “शुक” (= parrot) इति पुंल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनं च
      4. अशनम् – “अश्” (= to eat) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “अशन” (= eating, food) । तस्य द्वितीया विभक्तिः एकवचनं च
      5. आप्नोति – “आप्” (= to get) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम्
      6. ब्रुवन् – “ब्रू” (= to say, to utter) इति धातुः । तस्मात् कर्तरि-विशेषणं “ब्रुवत्” (= uttering) । अत्र पुंल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनं च
      7. There is no need of worrying about filling the stomach, if one has good knowledge. Even a parrot earns his livelihood by prattling राम, राम.
  3. The example sentence युवकः न गणयति दुःखं दास्यवृत्तेः seems to suggest that one should not mind being a servant, as long as it is earning the daily bread. This is not a very sound advise. It raises a question, whether one should look at one’s profession primarily as the means of earning the daily bread. An example sentence should also convey a positive advise.
  4. The word चेतनवत् brings to mind भूतानामस्मि चेतना (10-22, श्रीमद्भगवद्गीता) – “I am the liveliness of all existence”.

    • So, to have no वृत्तिभयम्, to be free from the anxiety of how living will happen, we should be चेतनवत्, i.e be conscious of Him, who is ‘the very liveliness of all existence’.



Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s